Sukta 1.180
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः । अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥
यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः । अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
yuváṃ páya usríyāyām adhattam pakvám āmā́yām áva pū́rvyaṃ góḥ | antár yád vaníno vām ṛtapsū́ hvāró ná śucír yájate havíṣmān ||
You two set the nourishing essence into the radiant seeker; you brought down the ancient Light (the Cow) from the raw, unripe condition into ripeness. When the desiring powers within are held in the streams of Truth, then the pure one—like a bright kindler—offers the oblation from within.
यु॒वम् । पयः॑ । उ॒स्रिया॑याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया॑म् । अव॑ । पूर्व्य॑म् । गोः । अ॒न्तः । यत् । व॒निनः॑ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू । ह्वा॒रः । न । शुचिः॑ । यज॑ते । ह॒विष्मा॑न् ॥युवम् । पयः । उस्रियायाम् । अधत्तम् । पक्वम् । आमायाम् । अव । पूर्व्यम् । गोः । अन्तः । यत् । वनिनः । वाम् । ऋतप्सू इत्यृतप्सू । ह्वारः । न । शुचिः । यजते । हविष्मान् ॥yuvam | payaḥ | usriyāyām | adhattam | pakvam | āmāyām | ava | pūrvyam | goḥ | antaḥ | yat | vaninaḥ | vām | ṛtapsūity ṛta-psū | hvāraḥ | na | śuciḥ | yajate | haviṣmān