Sukta 1.180
युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः । स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः । स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥
yuvám atyasyá áva nakṣatho yád vípatmano náryasya práyajyoḥ | svásā yád vāṃ viśvagūrtī́ bhárāti vājā́yeṭṭe madhu-pāv íṣe ca ||
You two protected Atya when the swift-moving, manly one was to be offered forth. When your sister Viśvagūrtī brings (the offering), she invokes you for the plenitude of force and for increase, O drinkers of honey.
यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः । स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥युवम् । अत्यस्य । अव । नक्षथः । यत् । विपत्मनः । नर्यस्य । प्रयज्योः । स्वसा । यत् । वाम् । विश्वगूर्ती इति विश्वगूर्ती । भराति । वाजाय । ईट्टे । मधुपौ । इषे । च ॥yuvam | atyasya | ava | nakṣathaḥ | yat | vi-patmanaḥ | naryasya | pra-yajyoḥ | svasā | yat | vām | viśvagūrtī itiviśva-gūrtī | bharāti | vājāya | īṭe | madhu-pau | iṣe | ca