Sukta 1.180
युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् । हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥
यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् । हि॒र॒ण्यया॑ वां प॒वय॑: प्रुषाय॒न्मध्व॒: पिब॑न्ता उ॒षस॑: सचेथे ॥
yuvó rajā́ṃsi suyámāso áśvā rátho yád vāṃ páry arṇā́ṃsi dī́yat | hiraṇyáyā vāṃ paváyaḥ pruṣā́yan mádhvaḥ píbantā uṣásaḥ sacethe ||
Your well-guided horses traverse the worlds when your chariot moves around the flowing currents. Golden are your fellies, sprinkling brightness; drinking the honeyed delight, you two keep company with the Dawn.
यु॒वः । रजां॑सि । सु॒ऽयमा॑सः । अश्वाः । रथः॑ । यत् । वा॒म् । परि॑ । अर्णां॑सि । दीय॑त् । हि॒र॒ण्यया॑ । वाम् । प॒वयः॑ । प्रु॒षा॒य॒न् । मध्वः॑ । पिब॑न्तौ । उ॒षसः॑ । स॒चे॒थे॒ इति॑ ॥युवः । रजांसि । सुयमासः । अश्वाः । रथः । यत् । वाम् । परि । अर्णांसि । दीयत् । हिरण्यया । वाम् । पवयः । प्रुषायन् । मध्वः । पिबन्तौ । उषसः । सचेथे इति ॥yuvaḥ | rajāṃsi | su-yamāsaḥ | aśvāḥ | rathaḥ | yat | vām | pari | arṇāṃsi | dīyat | hiraṇyayā | vām | pavayaḥ | pruṣāyan | madhvaḥ | pibantau | uṣasaḥ | sacetheiti