Sukta 1.179
इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे । यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥
इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑: ॥
imáṃ nú sómam ántito hṛtsú pītám úpa bruve | yát sīm ā́gaś cakṛmá tát su mṛḷátu pulukā́mo hí mártyaḥ ||
Now I speak out of the inmost heart of this Soma that has been drunk within: whatever fault we have made in it, may That indeed be gracious; for the mortal is a being of many desires.
इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥इमम् । नु । सोमम् । अन्तितः । हृत्सु । पीतम् । उप । ब्रुवे । यत् । सीम् । आगः । चकृम । तत् । सु । मृळतु । पुलुकामः । हि । मर्त्यः ॥imam | nu | somam | antitaḥ | hṛt-su | pītam | upa | bruve | yat | sīm | āgaḥ | cakṛma | tat | su | mṛḷatu | pulu-kāmaḥ | hi | martyaḥ