Sukta 1.179
नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् । लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒: कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
nadásya mā rudhatáḥ kā́ma ā́gann itá ājā́to amutáḥ kútaś cit | lopā́mudrā vṛ́ṣaṇaṃ nī́ riṇāti dhī́ram ádhīrā dhayati śvasántam ||
Desire has come upon me, though I was holding it back; born from here—or from beyond—whencesoever it be. Lopāmudrā loosens the strong one from within; the restless one draws the steadfast into her longing, as he breathes and labours.
न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् । लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥नदस्य । मा । रुधतः । कामः । आ । अगन् । इतः । आजातः । अमुतः । कुतः । चित् । लोपामुद्रा । वृषणम् । निः । रिणाति । धीरम् । अधीरा । धयति । श्वसन्तम् ॥nadasya | mā | rudhataḥ | kāmaḥ | ā | agan | itaḥ | ājātaḥ | amutaḥ | kutaḥ | cit | lopāmudrā | vṛṣaṇam | niḥ | riṇāti | dhīram | adhīrā | dhayati | śvasantam