Sukta 1.178
एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् । समर्य इषः स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥
ए॒वा नृभि॒रिन्द्र॑: सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् । स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंस॑: ॥
evā nṛ́bhir índraḥ suśravasyā́ prakhā́daḥ pṛ́kṣo abhí mitríṇo bhūt | samaryé íṣaḥ stavate vívāci satrā́karo yajamānasya śáṃsaḥ ||
Thus, with the powers in man, Indra becomes the forward-driving breaker of good hearing and luminous fame; he comes face to face with the friendly forces. In the battle, the impulsions of force are affirmed in manifold speech; the praise of the sacrificer becomes a maker of the straight, continuous working (towards victory).
ए॒व । नृऽभिः॑ । इन्द्रः॑ । सु॒ऽश्र॒व॒स्या । प्र॒ऽखा॒दः । पृ॒क्षः । अ॒भि । मि॒त्रिणः॑ । भू॒त् । स॒ऽम॒र्ये । इ॒षः । स्त॒व॒ते॒ । विऽवा॑चि । स॒त्रा॒ऽक॒रः । यज॑मानस्य । शंसः॑ ॥एव । नृभिः । इन्द्रः । सुश्रवस्या । प्रखादः । पृक्षः । अभि । मित्रिणः । भूत् । समर्ये । इषः । स्तवते । विवाचि । सत्राकरः । यजमानस्य । शंसः ॥eva | nṛ-bhiḥ | indraḥ | su-śravasyā | pra-khādaḥ | pṛkṣaḥ | abhi | mitriṇaḥ | bhūt | sa-marye | iṣaḥ | stavate | vi-vāci | satrākaraḥ | yajamānasya | śaṃsaḥ