Sukta 1.178
त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् । त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥
त्वया॑ व॒यं म॑घवन्निन्द्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् । त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
tváyā vayáṃ maghavann indra śátrūn abhí syāma maható manyámānān | tváṃ trātā́ tvám u no vṛ́dhe bhūr vidyā́meṣaṃ vṛ́janaṃ jīrádānum ||
With thee, O bountiful Indra, may we confront and overpass the hostile forces that deem themselves great. Thou art the protector; be for our increase: may we win the impulsion and the victorious advance, and the giver whose bounty endures.
त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् । त्वम् । त्रा॒ता । त्वम् । ऊँ॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वया । वयम् । मघवन् । इन्द्र । शत्रून् । अभि । स्याम । महतः । मन्यमानान् । त्वम् । त्राता । त्वम् । ऊँ इति । नः । वृधे । भूः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥tvayā | vayam | magha-van | indra | śatrūn | abhi | syāma | mahataḥ | manyamānān | tvam | trātā | tvam | oṃ iti | naḥ | vṛdhe | bhūḥ | vidyāma | iṣam | vṛjanam | jīra-dānum