Sukta 1.178
जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः । प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
जेता॒ नृभि॒रिन्द्र॑: पृ॒त्सु शूर॒: श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः । प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्य॑न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥
jétā nṛ́bhir índraḥ pṛtsú śū́raḥ śrótā hávaṃ nā́dhamānasya kāróḥ | prá-bhartā ráthaṃ dā́śuṣa upāká udyántā gíro yádi ca tmánā bhū́t ||
Indra, hero, is the victor in the battles with the men; he is the hearer of the call of the striving singer. He brings forward the chariot for the giver who is near at hand—when the utterances rise up, if he becomes so by his own self-power.
जेता॑ । नृऽभिः॑ । इन्द्रः॑ । पृ॒त्ऽसु । शूरः॑ । श्रोता॑ । हव॑म् । नाध॑मानस्य । का॒रोः । प्रऽभ॑र्ता । रथ॑म् । दा॒शुषः॑ । उ॒पा॒के । उत्ऽय॑न्ता । गिरः॑ । यदि॑ । च॒ । त्मना॑ । भूत् ॥जेता । नृभिः । इन्द्रः । पृत्सु । शूरः । श्रोता । हवम् । नाधमानस्य । कारोः । प्रभर्ता । रथम् । दाशुषः । उपाके । उत्यन्ता । गिरः । यदि । च । त्मना । भूत् ॥jetā | nṛ-bhiḥ | indraḥ | pṛt-su | śūraḥ | śrotā | havam | nādhamānasya | kāroḥ | pra-bhartā | ratham | dāśuṣaḥ | upāke | ut-yantā | giraḥ | yadi | ca | tmanā | bhūt