Sukta 1.178
न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ । आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥
न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णव॑न्त॒ योनौ॑ । आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इन्द्र॑: स॒ख्या वय॑श्च ॥
ná ghā rājéndra ā́ dabhannó yā́ nú svásārā kṛ́ṇavanta yónau | ā́paś cid asmai sutúkā aveṣan gámann a índraḥ sakhyā́ váyaś ca ||
Surely King Indra does not deceive us—he who makes the sister-powers one in their womb. Even the Waters, for him, have found glad ease; may Indra come to us with friendship and with the strength of life.
न । घ॒ । राजा॑ । इन्द्रः॑ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा॑रा । कृ॒णव॑न्त । योनौ॑ । आपः॑ । चि॒त् । अ॒स्मै॒ । सु॒ऽतुकाः॑ । अ॒वे॒ष॒न् । गम॑त् । नः॒ । इन्द्रः॑ । स॒ख्या । वयः॑ । च॒ ॥न । घ । राजा । इन्द्रः । आ । दभत् । नः । या । नु । स्वसारा । कृणवन्त । योनौ । आपः । चित् । अस्मै । सुतुकाः । अवेषन् । गमत् । नः । इन्द्रः । सख्या । वयः । च ॥na | gha | rājā | indraḥ | ā | dabhat | naḥ | yā | nu | svasārā | kṛṇavanta | yonau | āpaḥ | cit | asmai | su-tukāḥ | aveṣan | gamat | naḥ | indraḥ | sakhyā | vayaḥ | ca