Sukta 1.178
यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती । मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥
यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती । मा न॒: कामं॑ म॒हय॑न्त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥
yád dha syā́ ta indra śruṣṭír ásti yáyā babhū́tha jaritṛ́bhya ūtī́ | mā́ naḥ kā́maṃ maháyantam ā́ dhag víśvā te aśyāṃ páry ā́pa ā́yoḥ ||
If indeed thou hast that ready hearing, O Indra, by which thou hast become the help of the singers, then set not aside our growing desire; may I attain all thy riches, encompassing them, O vital power.
यत् । ह॒ । स्या । ते॒ । इ॒न्द्र॒ । श्रु॒ष्टिः । अस्ति॑ । यया॑ । ब॒भूथ॑ । ज॒रि॒तृऽभ्यः॑ । ऊ॒ती । मा । नः॒ । काम॑म् । म॒हय॑न्तम् । आ । ध॒क् । विश्वा॑ । ते॒ । अ॒श्या॒म् । परि॑ । आपः॑ । आ॒योः ॥यत् । ह । स्या । ते । इन्द्र । श्रुष्टिः । अस्ति । यया । बभूथ । जरितृभ्यः । ऊती । मा । नः । कामम् । महयन्तम् । आ । धक् । विश्वा । ते । अश्याम् । परि । आपः । आयोः ॥yat | ha | syā | te | indra | śruṣṭiḥ | asti | yayā | babhūtha | jaritṛ-bhyaḥ | ūtī | mā | naḥ | kāmam | mahayantam | ā | dhak | viśvā | te | aśyām | pari | āpaḥ | āyoḥ