Sukta 1.177
आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि । युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒: परि॑षिक्ता॒ मधू॑नि । यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
ā́ tíṣṭha ráthaṃ vṛ́ṣaṇaṃ vṛ́ṣā te sutáḥ sómaḥ pári-siktā mádhūni | yuktvā́ vṛ́ṣa-bhyāṃ vṛṣabha kṣitīnā́ṃ háribhyāṃ yāhi prá-vatopá madrík ||
Mount the strong chariot; the Soma is pressed for thee, O mighty one, and the sweetnesses are poured all around. Yoking the two potent steeds, O Bull of the habitations, come with the Haris down the sloping ways to the ecstasy.
आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि । यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥आ । तिष्ठ । रथम् । वृषणम् । वृषा । ते । सुतः । सोमः । परिसिक्ता । मधूनि । युक्त्वा । वृषभ्याम् । वृषभ । क्षितीनाम् । हरिभ्याम् । याहि । प्रवता । उप । मद्रिक् ॥ā | tiṣṭha | ratham | vṛṣaṇam | vṛṣā | te | sutaḥ | somaḥ | pari-siktā | madhūni | yuktvā | vṛṣa-bhyām | vṛṣabha | kṣitīnām | hari-bhyām | yāhi | pra-vatā | upa | madrik