Sukta 1.177
ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः । ताँ आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥
ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्या॑: । ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इ॑न्द्र॒ सोमे॑ ॥
yé te vṛ́ṣaṇo vṛṣabhā́sa indra brahma-yújo vṛ́ṣa-rathāso átyāḥ | tā́n ā́ tíṣṭha tébhir ā́ yāhy arvā́ṅ havāmahe tvā sutá índra sóme ||
Those thy strong, bull-like steeds, O Indra—yoked by the sacred word, drawing the mighty car—mount them; with them come hither. We call thee when the Soma is pressed, O Indra.
ये । ते॒ । वृष॑णः । वृ॒ष॒भासः॑ । इ॒न्द्र॒ । ब्र॒ह्म॒ऽयुजः॑ । वृष॑ऽरथासः । अत्याः॑ । तान् । आ । ति॒ष्ठ॒ । तेभिः॑ । आ । या॒हि॒ । अ॒र्वाङ् । हवा॑महे । त्वा॒ । सु॒ते । इ॑न्द्र । सोमे॑ ॥ये । ते । वृषणः । वृषभासः । इन्द्र । ब्रह्मयुजः । वृषरथासः । अत्याः । तान् । आ । तिष्ठ । तेभिः । आ । याहि । अर्वाङ् । हवामहे । त्वा । सुते । इन्द्र । सोमे ॥ye | te | vṛṣaṇaḥ | vṛṣabhāsaḥ | indra | brahma-yujaḥ | vṛṣa-rathāsaḥ | atyāḥ | tān | ā | tiṣṭha | tebhiḥ | ā | yāhi | arvāṅ | havāmahe | tvā | sute | indra | some