Sukta 1.177
अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः । स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥
अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमि॑न्द्र॒ सोम॑: । स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥
ayáṃ yajñó deva-yā́ ayáṃ miyédha imā́ bráhmāṇy ayám indra sómaḥ | stīrṇáṃ bárhir ā́ tu śakra prá yāhi píba niṣádya ví mucā hárī ihá ||
This is the sacrifice that leads to the gods; this is the offering-work; these are the sacred utterances; this, O Indra, is the Soma. The grass-seat is strewn: come then, O Shakra, advance hither; drink, seated, and here unyoke thy two steeds.
अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ । स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥अयम् । यज्ञः । देवयाः । अयम् । मियेधः । इमा । ब्रह्माणि । अयम् । इन्द्र । सोमः । स्तीर्णम् । बर्हिः । आ । तु । शक्र । प्र । याहि । पिब । निसद्य । वि । मुच । हरी इति । इह ॥ayam | yajñaḥ | deva-yāḥ | ayam | miyedhaḥ | imā | brahmāṇi | ayam | indra | somaḥ | stīrṇam | barhiḥ | ā | tu | śakra | pra | yāhi | piba | ni-sadya | vi | muca | harī iti | iha