Sukta 1.177
आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः । स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥
आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑: । स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥
ā́ carṣaṇi-prā́ vṛṣabhó jánānāṃ rājā́ kṛṣṭīnā́ṃ puruhū́ta índraḥ | stutáḥ śravasyán ávasopá madríg yuktvā́ hárī vṛ́ṣaṇā yāhy arvā́ṅ ||
Come, O leader of the human peoples, Bull of the nations, King of the communities, much-invoked Indra. Praised and seeking the luminous fame, come near with thy help; yoking the two strong bay steeds, drive hither to us.
आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॑ । वृ॒ष॒णा । या॒हि॒ । अ॒र्वाङ् ॥आ । चर्षणिप्राः । वृषभः । जनानाम् । राजा । कृष्टीनाम् । पुरुहूतः । इन्द्रः । स्तुतः । श्रवस्यन् । अवसा । उप । मद्रिक् । युक्त्वा । हरी । वृषणा । याहि । अर्वाङ् ॥ā | carṣaṇi-prāḥ | vṛṣabhaḥ | janānām | rājā | kṛṣṭīnām | puru-hūtaḥ | indraḥ | stutaḥ | śravasyan | avasā | upa | madrik | yuktvā | harī | vṛṣaṇā | yāhi | arvāṅ