Sukta 1.171
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् । स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभिः स्थविरः सहोदाः ॥
येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् । स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒: स्थवि॑रः सहो॒दाः ॥
yéna mā́nāsaś citáyanta usrā́ vyùṣṭiṣu śávasā śáśvatīnām | sá no marúdbhīr vṛṣabha śrávo dhā ugrá ugrébhiḥ stháviráḥ sahodā́ḥ ||
By that power wherewith the illumined rays awaken the minds in the repeated dawnings through their force—do you, O Bull, with the Maruts, establish in us the hearing of truth and fame of the soul: strong with the strong, steadfast, a giver of might.
येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् । सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥येन । मानासः । चितयन्ते । उस्राः । विउष्टिषु । शवसा । शश्वतीनाम् । सः । नः । मरुत्भिः । वृषभ । श्रवः । धाः । उग्रः । उग्रेभिः । स्थविरः । सहःदाः ॥yena | mānāsaḥ | citayante | usrāḥ | vi-uṣṭiṣu | śavasā | śaśvatīnām | saḥ | naḥ | marut-bhiḥ | vṛṣabha | śravaḥ | dhāḥ | ugraḥ | ugrebhiḥ | sthaviraḥ | sahaḥ-dāḥ