Sukta 1.171
अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः । युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥
अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः । यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥
asmā́d aháṁ tavíṣād ī́ṣamāṇa índrād bhiyā́ maruto réjamānaḥ | yuṣmábhyaṁ havyā́ níśitāny āsan tā́ny āré cakṛma mṛḷátā naḥ ||
From this overpowering force I recoil, trembling—O Maruts—out of fear of Indra. The offerings meant for you had become sharp and dangerous; we have set those far away. Be gracious to us; bring relief and right measure.
अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष॑माणः । इन्द्रा॑त् । भि॒या । म॒रु॒तः॒ । रेज॑मानः । यु॒ष्मभ्य॑म् । ह॒व्या । निऽशि॑तानि । आ॒स॒न् । तानि॑ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत॑ । नः॒ ॥अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः । युष्मभ्यम् । हव्या । निशितानि । आसन् । तानि । आरे । चकृम । मृळत । नः ॥asmāt | aham | taviṣāt | īṣamāṇaḥ | indrāt | bhiyā | marutaḥ | rejamānaḥ | yuṣmabhyam | havyā | ni-śitāni | āsan | tāni | āre | cakṛma | mṛḷata | naḥ