Sukta 1.171
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः । ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥
स्तु॒तासो॑ नो म॒रुतो॑ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः । ऊ॒र्ध्वा न॑: सन्तु को॒म्या वना॒न्यहा॑नि॒ विश्वा॑ मरुतो जिगी॒षा ॥
stutā́so no marúto mṛḷayantū́ta stutó maghávā śámbhaviṣṭhaḥ | ūrdhvā́ naḥ santu komyā́ vánāny áhāni víśvā maruto jigīṣā́ ||
May the Maruts, when praised, become gracious to us; and may the bounteous Indra, most capable of bringing true happiness, be strengthened by our hymn. May our desirable growths and all our days rise upward—O Maruts—towards the will to conquer (the lower movements).
स्तु॒तासः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घऽवा॑ । शम्ऽभ॑विष्ठः । ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना॑नि । अहा॑नि । विश्वा॑ । म॒रु॒तः॒ । जि॒गी॒षा ॥स्तुतासः । नः । मरुतः । मृळयन्तु । उत । स्तुतः । मघवा । शम्भविष्ठः । ऊर्ध्वा । नः । सन्तु । कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा ॥stutāsaḥ | naḥ | marutaḥ | mṛḷayantu | uta | stutaḥ | magha-vā | śam-bhaviṣṭhaḥ | ūrdhvā | naḥ | santu | komyā | vanāni | ahāni | viśvā | marutaḥ | jigīṣā