Sukta 1.171
एष वः स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः । उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥
ए॒ष व॒: स्तोमो॑ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः । उपे॒मा या॑त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धास॑: ॥
eṣá vaḥ stómo maruto námasvān hṛdā́ taṣṭó mánasā dhāyi devāḥ | upémā yāta mánasā juṣāṇā yūyáṃ hí ṣṭhā námasa íd vṛdhā́saḥ ||
This is your hymn, O Maruts, full of reverence—fashioned by the heart, set in place by the mind, O gods. Come near to it, consenting in your thought; for you indeed increase by our homage, and in that increase you enlarge our being.
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । नम॑स्वान् । हृ॒दा । त॒ष्टः । मन॑सा । धा॒यि॒ । दे॒वाः॒ । उप॑ । ई॒म् । आ । या॒त॒ । मन॑सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम॑सः । इत् । वृ॒धासः॑ ॥एषः । वः । स्तोमः । मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः । उप । ईम् । आ । यात । मनसा । जुषाणाः । यूयम् । हि । स्थ । नमसः । इत् । वृधासः ॥eṣaḥ | vaḥ | stomaḥ | marutaḥ | namasvān | hṛdā | taṣṭaḥ | manasā | dhāyi | devāḥ | upa | īm | ā | yāta | manasā | juṣāṇāḥ | yūyam | hi | stha | namasaḥ | it | vṛdhāsaḥ