Sukta 1.17
इन्द्रावरुण वामहं हुवे चित्राय राधसे । अस्मान्त्सु जिग्युषस्कृतम् ॥
इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से । अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥
indrā́varuṇa vām aháṃ huvè citrā́ya rā́dhase | asmā́nt su jigyúṣaḥ kṛtam ||
O Indra and Varuṇa, I call you for the many-formed plenitude (rādhas). Make us truly those who have won—shape us into victors in the inner battle.
इन्द्रा॑वरुणा । वा॒म् । अ॒हम् । हु॒वे । चि॒त्राय॑ । राध॑से । अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒त॒म् ॥इन्द्रावरुणा । वाम् । अहम् । हुवे । चित्राय । राधसे । अस्मान् । सु । जिग्युषः । कृतम् ॥indrāvaruṇā | vām | aham | huve | citrāya | rādhase | asmān | su | jigyuṣaḥ | kṛtam