Sukta 1.17
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः । धर्तारा चर्षणीनाम् ॥
गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः । ध॒र्तारा॑ चर्षणी॒नाम् ॥
gántārā hí sthó ’váse hávaṁ víprasya mā́vataḥ | dhartārā carṣaṇīnā́m ||
For you two are indeed the comers to our aid, hearing the call of the inspired one who has the mighty impulse; you are the upholders of the peoples—powers that sustain the human march.
गन्ता॑राः । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माव॑तः । ध॒र्तारा॑ च॒र्ष॒णी॒नाम् ॥गन्ताराः । हि । स्थः । अवसे । हवम् । विप्रस्य । मावतः । धर्तारा चर्षणीनाम् ॥gantārāḥ | hi | sthaḥ | avase | havam | viprasya | māvataḥ | dhartārācarṣaṇīnām