Sukta 1.167
नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः । ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥
न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः । ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
nahī́ nú vo maruto ánty asmḗ ārā́ttāc cic chávaso ántam ā́puḥ | té dhṛ́ṣṇunā śávasā śūśuvā́ṃso 'árṇo ná dvéṣo dhṛṣatā́ pári sthuḥ ||
Never indeed, O Maruts, have you come to the end of your force for us, not even from far away. Growing keen by daring strength, you stand around hostility as a flood around an obstacle, pressing it back.
न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः । ते । धृ॒ष्णुना॑ शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥नहि । नु । वः । मरुतः । अन्ति । अस्मे इति । आरात्तात् । चित् । शवसः । अन्तम् । आपुः । ते । धृष्णुना शवसा । शूशुवांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः ॥nahi | nu | vaḥ | marutaḥ | anti | asme iti | ārāttāt | cit | śavasaḥ | antam | āpuḥ | te | dhṛṣṇunāśavasā | śūśu-vāṃsaḥ | arṇaḥ | na | dveṣaḥ | dhṛṣatā | pari | sthuḥ