Sukta 1.167
वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये । वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥
व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये । व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
vayám adyéndrasya préṣṭhā vayáṃ śvó vocemahi sa-maryé | vayáṃ purā́ máhi ca no ánu dyū́n tán na ṛbhukṣā́ nárām ánu syāt ||
We today are Indra’s most dear; tomorrow too we would speak forth in the battle-press. We have been so before, and may it be for us through the days: may that be ours under the guidance of the strong-shaping power among men.
व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये । व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । समर्ये । वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात् ॥vayam | adya | indrasya | preṣṭhāḥ | vayam | śvaḥ | vocemahi | sa-marye | vayam | purā | mahi | ca | naḥ | anu | dyūn | tat | naḥ | ṛbhukṣāḥ | narām | anu | syāt