Sukta 1.167
पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् । उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥
पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् । उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
pā́nti mitrā́váruṇāv avadyā́c cáyate īm aryamó ápraśastān | utá cyavante ácyutā dhruvā́ṇi vāvṛdhá īm maruto dāti-vāraḥ ||
Mitra and Varuṇa guard them from the fault; Aryaman gathers them, the unreproached. And even the unshaken fixed things are set in motion; the Maruts grow, rich in the giving.
पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् । उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्रशस्तान् । उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दातिवारः ॥pānti | mitrāvaruṇau | avadyāt | cayate | īm | aryamo iti | apra-śastān | uta | cyavante | acyutā | dhruvāṇi | vavṛdhe | īm | marutaḥ | dāti--vāraḥ