Sukta 1.167
प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति । सचा यदीं वृषमणा अहंयुः स्थिरा चिज्जनीर्वहते सुभागाः ॥
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ । सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
prá taṃ vivakmi vakmyò yá eṣā́ṃ marútāṃ mahimā́ satyó ásti | sacā́ yad ī́m vṛ́ṣa-manā a-haṃ-yúḥ sthirā́ cid jánīr váhate su-bhāgā́ḥ ||
I bring forward for utterance that One, the truly speakable—he whose greatness is the real Truth of these Maruts. When he moves with them, the bull-minded and self-driven power, even the firm-established energies are carried forward, made fortunate in their share.
प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ । सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥प्र । तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति । सचा । यत् । ईम् । वृषमनाः । अहम्युः । स्थिरा । चित् । जनीः । वहते । सुभागाः ॥pra | tam | vivakmi | vakmyaḥ | yaḥ | eṣām | marutām | mahimā | satyaḥ | asti | sacā | yat | īm | vṛṣa-manāḥ | aham-yuḥ | sthirā | cit | janīḥ | vahate | su-bhāgāḥ