Sukta 1.167
आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् । अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥
आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् । अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
ā́sthāpayanta yuvatíṃ yúvānaḥ śubhé nímiślām vidáthēṣu pajrā́m | arkó yád vo maruto havíṣmān gā́yad gā́thaṃ sutá-somo duvasyán ||
The young ones set up the young maiden—bright, swift—within the gatherings. When the hymn, bearing offering, sings for you, O Maruts, when the pressed Soma chants the chant in service, then the powers are firmly installed in us.
आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् । अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥आ । अस्थापयन्त । युवतिम् । युवानः । शुभे । निमिश्लाम् । विदथेषु । पज्राम् । अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुतसोमः । दुवस्यन् ॥ā | asthāpayanta | yuvatim | yuvānaḥ | śubhe | ni-miślām | vidatheṣu | pajrām | arkaḥ | yat | vaḥ | marutaḥ | haviṣmān | gāyat | gātham | suta-somaḥ | duvasyan