Sukta 1.167
जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः । आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥
जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑: । आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
jóṣad yád īm asuryā́ sacádhyai víṣita-stukā rodasī́ nṛmánāḥ | ā́ sū́ryeva vidható ráthaṃ gāt tveṣá-pratīkā nábhaso nétyā ||
When the sovereign power consents to accompany them, the two worlds, eager for manhood, with bright-tufted splendours, move. Like the Sun, it goes to the worshipper’s chariot—its form blazing—moving through the heaven’s spaces.
जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ । आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसितस्तुका । रोदसी । नृमनाः । आ । सूर्याइव । विधतः । रथम् । गात् । त्वेषप्रतीका । नभसः । न । इत्या ॥joṣat | yat | īm | asuryā | sacadhyai | visita-stukā | rodasī | nṛ-manāḥ | ā | sūryāiva | vidhataḥ | ratham | gāt | tveṣa-pratīkā | nabhasaḥ | na | ityā