Sukta 1.167
मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः । गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः । गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
mimyakṣa yéṣu su-dhítā ghṛtā́cī híraṇya-nirnig úparā ná ṛṣṭíḥ | guhā́ cárantī mánuṣo ná yóṣā sabhā́vatī vidathyéva sáṃ vāk ||
In whom the well-set, ghee-bright (power) glitters—like a spear with golden sheen and upper edge; moving hidden, like a woman among men, their word gathers together, assembly-bearing, as in a solemn session.
मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः । गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥मिम्यक्ष । येषु । सुधिता । घृताची । हिरण्यनिर्निक् । उपरा । न । ऋष्टिः । गुहा । चरन्ती । मनुषः । न । योषा । सभावती । विदथ्याइव । सम् । वाक् ॥mimyakṣa | yeṣu | su-dhitā | ghṛtācī | hiraṇya-nirnik | uparā | na | ṛṣṭiḥ | guhā | carantī | manuṣaḥ | na | yoṣā | sabhāvatī | vidathyāiva | sam | vāk