Sukta 1.167
आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः । अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥
आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः । अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥
ā́ no ’vóbhir marúto yā́ntv ácchā jyeṣṭhébhir vā bṛháddivaiḥ sumāyā́ḥ | ádha yád eṣāṃ niyútaḥ paramā́ḥ samudrásya cid dhánayanta pāré ||
Come to us, O Maruts, with your helps—whether with the eldest, the vast-shining ones of good skill. For when their highest yoked energies win even at the farther shore of the ocean, then their power is proven: let it arrive here for our journey.
आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः । अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥आ । नः । अवःभिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्दिवैः । सुमायाः । अध । यत् । एषाम् । नियुतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे ॥ā | naḥ | avaḥ-bhiḥ | marutaḥ | yāntu | accha | jyeṣṭhebhiḥ | vā | bṛhat-divaiḥ | su-māyāḥ | adha | yat | eṣām | ni-yutaḥ | paramāḥ | samudrasya | cit | dhanayanta | pāre