Sukta 1.167
सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः । सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः । स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑: ॥
sahásraṃ ta indrótayo naḥ sahásram íṣo harivo gū́rtatamāḥ | sahásraṃ rā́yo mādayádhyai sahasríṇa úpa no yantu vā́jāḥ ||
A thousand are your helps for us, O Indra; a thousand your nourishings, O lord of the tawny steeds, most eager to be invoked. A thousand are the plenitudes of delight for our ecstasy; may the thousandfold powers of accomplishment come near to us.
स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः । स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरिवः । गूर्ततमाः । सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः ॥sahasram | te | indra | ūtayaḥ | naḥ | sahasram | iṣaḥ | hari-vaḥ | gūrta-tamāḥ | sahasram | rāyaḥ | mādayadhyai | sahasriṇaḥ | upa | naḥ | yantu | vājāḥ