Sukta 1.162
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति । यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
yád aśvásya kravíṣo mákṣikāśa yád vā svárau svádhitau riptám ásti | yád hástayōḥ śamitúr yán nakhéṣu sárvā tā́ te ápi devéṣv astu ||
Whatever defilement of flesh there is from flies, whatever is smeared upon the knife, whatever is on the hands of the arranger, whatever is on the nails—may all that too be taken up among the gods, purified by their acceptance.
यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ । यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्वधितौ । रिप्तम् । अस्ति । यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥yat | aśvasya | kraviṣaḥ | makṣikā | āśa | yat | vā | svarau | sva-dhitau | riptam | asti | yat | hastayoḥ | śamituḥ | yat | nakheṣu | sarvā | tā | te | api | deveṣu | astu