Sukta 1.162
यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥
yád ū́vadhyam udárasyā́pavāti yá ā́masya kravíṣo gandhó ásti | sukṛtā́ tác chamitā́raḥ kṛṇvantū́ta médhaṃ śṛtapā́kaṃ pacantu ||
Whatever foul breath comes from the belly, whatever scent of raw flesh there is—let the skilled arrangers make that well-settled; and let them cook the offering of intelligence, perfectly boiled and ripened.
यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ । सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥यत् । ऊवध्यम् । उदरस्य । अपवाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति । सुकृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृतपाकम् । पचन्तु ॥yat | ūvadhyam | udarasya | apa-vāti | yaḥ | āmasya | kraviṣaḥ | gandhaḥ | asti | su-kṛtā | tat | śamitāraḥ | kṛṇvantu | uta | medham | śṛta-pākam | pacantu