Sukta 1.162
यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
yád vājíno dā́ma saṃdānáṃ árvato yā́ śīrṣaṇyā́ raśanā́ rájju rásya | yád vā gha asya prábhṛtam āsyè tṛ́ṇam sárvā tā́ te ápi devéṣv astu ||
Whatever is the binding and the fastening of the steed of plenitude, whatever head-strap and rope are his, and whatever grass is brought to his mouth—may all that be accepted and taken up among the gods, transmuted into their light.
यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ । यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥यत् । वाजिनः । दाम । सम्दानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य । यत् । वा । घ । अस्य । प्रभृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥yat | vājinaḥ | dāma | sam-dānam | arvataḥ | yā | śīrṣaṇyā | raśanā | rajjuḥ | asya | yat | vā | gha | asya | pra-bhṛtam | āsye | tṛṇam | sarvā | tā | te | api | deveṣu | astu