Sukta 1.162
उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः । अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥
úpa prá agāt sumán me ’dhāyi mánma devā́nām ā́śā úpa vītápṛṣṭhaḥ | ánv enaṃ víprā ṛ́ṣayo madanti devā́nāṃ púṣṭe cakṛma subándhum ||
It has come near and forward; a good thought has been set in me—the thought that hopes toward the gods. Near comes the wide-backed carrier; following it, the seers and sages take delight. For the gods’ increase we have made a good bond of union.
उप॑ । प्र॑ । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः । अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥उप । प्र । अगात् । सुमत् । मे । अधायि । मन्म । देवानाम् । आशाः । उप । वीतपृष्ठः । अनु । एनम् । विप्राः । ऋषयः । मदन्ति । देवानाम् । पुष्टे । चकृम । सुबन्धुम् ॥upa | pra | agāt | su-mat | me | adhāyi | manma | devānām | āśāḥ | upa | vīta-pṛṣṭhaḥ | anu | enam | viprāḥ | ṛṣayaḥ | madanti | devānām | puṣṭe | cakṛma | su-bandhum