Sukta 1.162
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति । ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
yūpavráskā utá yé yūpavāhā́ś caṣā́laṃ yé aśvayūpā́ya tákṣati | yé cā́rvate pácanaṃ sambháranty utó téṣām abhigū́rtir na invatu ||
May those who fashion the posts, and those who carry them; those who carve the headpiece for the horse-post; and those who bring the cooking—may the strong collective assent and forward-impulsion of all of them move us onward.
यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति । ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥यूपव्रस्काः । उत । ये । यूपवाहाः । चषालम् । ये । अश्वयूपाय । तक्षति । ये । च । अर्वते । पचनम् । सम्भरन्ति । उतो इति । तेषाम् । अभिगूर्तिः । नः । इन्वतु ॥yūpa-vraskāḥ | uta | ye | yūpa-vāhāḥ | caṣālam | ye | aśva-yūpāya | takṣati | ye | ca | arvate | pacanam | sam-bharanti | uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu