Sukta 1.162
होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥
hótādhvaryúr ā́vayā agním índho grā́vagrābhá utá śáṃstā súvipraḥ | téna yajñéna svàraṃkṛtena svíṣṭena vakṣaṇā́ ā́ pṛṇadhvam ||
Let the Hotṛ and Adhvaryu, the helpers, kindle Agni; let the stone-graspers and the inspired reciter affirm the right word. By that sacrifice well-shaped into the luminous tone, perfectly offered, fill full the channels of our strength and bearing.
होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः । तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥होता । अध्वर्युः । आवयाः । अग्निम्इन्धः । ग्रावग्राभः । उत । शंस्ता । सुविप्रः । तेन । यज्ञेन । सुअरङ्कृतेन । सुइष्टेन । वक्षणाः । आ । पृणध्वम् ॥hotā | adhvaryuḥ | āvayāḥ | agnim-indhaḥ | grāva-grābhaḥ | uta | śaṃstā | su-vipraḥ | tena | yajñena | su-ararṅketena | su-iṣṭena | vakṣaṇāḥ | ā | pṛṇadhvam