Sukta 1.162
यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥
यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥
yád haviṣyàm ṛtuśó devayā́naṃ trír mā́nuṣāḥ párī aśváṃ náyanti | átrā́ pū́ṣṇaḥ prathamó bhāgá eti yajñáṃ devébhyaḥ prativedáyan ajáḥ ||
When the offering-force, moving in the rhythm of the seasons, is led threefold by human energies around the steed of swift power, then here the first share goes to Pūṣan—the awakener and increaser—who makes the sacrifice consciously known and rightly delivered to the gods, as the unborn inner guide.
यद् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॑व॒ऽयानम् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति । अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥यद् । हविष्यम् । ऋतुशः । देवयानम् । त्रिः । मानुषाः । परि । अश्वम् । नयन्ति । अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञम् । देवेभ्यः । प्रतिवेदयन् । अजः ॥yad | haviṣyam | ṛtu-śaḥ | deva-yānam | triḥ | mānuṣāḥ | pari | aśvam | nayant i | atra | pūṣṇaḥ | prathamaḥ | bhāgaḥ | eti | yajñam | devebhyaḥ | prati-vedayan | ajaḥ