Sukta 1.162
एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥
ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
eṣá chā́gaḥ puró áśvena vājínā pū́ṣṇo bhā́go nīyate viśvá-devyaḥ | abhí-priyaṃ yát puroḷā́śam árvātā tváṣṭed énaṃ sauśrávasāya jinvatí ||
This goat is led in front with the swift horse as Pūṣan’s portion, for all the gods. When the beloved puroḷāśa is offered with the steed, Tvaṣṭṛ strengthens it for good fame—he perfects the form so the offering becomes a true vehicle of the soul’s renown.
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः । अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भगः । नीयते । विश्वदेव्यः । अभिप्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जिन्वति ॥eṣaḥ | chāgaḥ | puraḥ | aśvena | vājinā | pūṣṇaḥ | bhagaḥ | nīyate | viśva-devyaḥ | abhi-priyam | yat | puroḷāśam | arvatā | tvaṣṭā | it | enam | sauśravasāya | ji nvati