Sukta 1.162
यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ॥
yán nirṇíjā rékṇasā prā́vṛtasya rātíṃ gṛbhītā́ṃ mukható náyanti | su-prā́ṅ ajó mémyad viśvá-rūpa indrāpū́ṣṇoḥ priyám ápy eti pā́thaḥ ||
When, covered with the garment and the wealth, they lead the seized offering forward from the mouth—then the forward-moving goat, bleating, of all-forms, reaches the beloved path of Indra and Pūṣan: the life-energy is guided into the right way of the illumined and the nourisher.
यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति । सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥यत् । निःनिजा । रेक्णसा । प्रावृतस्य । रातिम् । गृभीताम् । मुखतः । नयन्ति । सुप्राङ् । अजः । मेम्यत् । विश्वरूपः । इन्द्रापूष्णोः । प्रियम् । अपि । एति । पाथः ॥yat | niḥ-nijā | rekṇasā | prāvṛtasya | rātim | gṛbhītām | mukhataḥ | nayanti | su-prāṅ | ajaḥ | memyat | viśva-rūpaḥ | indrāpūṣṇoḥ | priyam | api | eti | pāthaḥ