Sukta 1.162
न वा उ एतन्म्रियसे न रिष्यसि देवाँ इदेषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑: सु॒गेभि॑: । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥
ná vā u etán mriyase ná riṣyasi devā́n íd eṣi pathíbhīḥ su-gébhiḥ | harī́ te yuñjā́ pṛ́ṣatī abhūtām upā́sthād vājī́ dhurí rāsábhasya ||
Truly by this thou dost not perish, nor art thou harmed; by fair and easy paths thou goest indeed to the Gods. Two bright steeds are yoked for thee, dappled in their energies; the strong one has stood near, upon the yoke-pole of the ass—supporting the passage.
न । वै । ऊँ॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । हरी॑ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥न । वै । ऊँ इति । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथिभिः । सुगेभिः । हरी इति । ते । युञ्जा । पृषती इति । अभूताम् । उप । अस्थात् । वाजी । धुरि । रासभस्य ॥na | vai | oṃ iti | etat | mriyase | na | riṣyasi | devān | it | eṣi | pathi-bhiḥ | su-gebhiḥ | harīiti | te | yuñjā | pṛṣatī iti | abhūtām | upa | asthāt | vājī | dhuri | rāsabhasya