Sukta 1.162
सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम् । अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
su-gávyam no vājī́ sva-aśvyáṃ puṃsáḥ putrā́n utá viśvā́-puṣaṃ rayím | anāgā́s tvaṃ no áditiḥ kṛṇotu kṣatráṃ no áśvo vanatāṃ havíṣmān ||
May the strong Horse-power win for us good herds of illumination and good steeds of energy, sons of the soul and a wealth that nourishes all our being. May Aditi make us without fault; may the Horse, rich with the offering, win for us the power to rule ourselves in the right order.
सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्वा॒ऽपुष॑म् । र॒यिम् । अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥सुगव्यम् । नः । वाजी । सुअश्व्यम् । पुंसः । पुत्रान् । उत । विश्वापुषम् । रयिम् । अनागाःत्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान् ॥su-gavyam | naḥ | vājī | su-aśvyam | puṃsaḥ | putrān | uta | viśvāpuṣam | rayim | anāgāḥ-tvam | naḥ | aditiḥ | kṛṇotu | kṣatram | naḥ | aśvaḥ | vanatām | haviṣmān