Sukta 1.162
मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
mā́ no mitró váruṇo aryamā́yur índra ṛbhukṣā́ marútaḥ pári khyan | yád vājíno deva-jā́tasya sáptéḥ prá-vakṣyāmo vidáthe vīryā́ṇi ||
Let not Mitra, Varuna, Aryaman, the life-force, Indra, Rbhukshan, the Maruts look upon us with blame, because we shall proclaim in the assembly the heroic powers of the swift steed born of the gods—declaring the inner mastery that must be rightly spoken.
मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् । यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥मा । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । परि । ख्यन् । यत् । वाजिनः । देवजातस्य । सप्तेः । प्रवक्ष्यामः । विदथे । वीर्याणि ॥mā | naḥ | mitraḥ | varuṇaḥ | aryamā | āyuḥ | indraḥ | ṛbhukṣāḥ | marutaḥ | pari | khyan | yat | vājinaḥ | deva-jātasya | sapteḥ | pra-vakṣyāmaḥ | vidathe | vīyārṇi