Sukta 1.162
एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः । या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥
ékás tváṣṭur áśvasya vi-śastā́ dvā́ yantā́rā bhavatas táthā ṛtúḥ | yā́ te gā́trāṇām ṛtu-thā́ kṛṇómi tā́tā piṇḍā́nāṃ prá juhomy agnáu ||
One is the apportioner for Tvaṣṭṛ’s steed; two are they who guide and restrain it—so too is the right season and law. Whatever distribution of thy limbs I make according to the true measure, those portions of the masses I cast forward into Agni.
एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः । या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥एकः । त्वष्टुः । अश्वस्य । विशस्ता । द्वा । यन्तारा । भवतः । तथा । ऋतुः । या । ते । गात्राणाम् । ऋतुथा । कृणोमि । ताता । पिण्डानाम् । प्र । जुहोमि । अग्नौ ॥ekaḥ | tvaṣṭuḥ | aśvasya | vi-śastā | dvā | yantārā | bhavataḥ | tathā | ṛtuḥ | yā | te | gātrāṇām | ṛtu-thā | kṛṇomi | tātā | piṇḍānm | pra | juhomi | agnau