Sukta 1.162
चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति । अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥
catús-triṃśad vājíno devá-bandhor váṅkrīr áśvasya svá-dhitiḥ sám eti | ácchidrā gā́trā vayúnā kṛṇota párūṣ-parur anú-ghuṣyā ví śasta ||
Thirty-four ribs belong to the strong steed, kin of the Gods; the axe comes together upon the horse. Make the limbs unbroken by right skill and discerning method; joint after joint, proclaim and cut with due sound and measured art.
चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ । अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥चतुःत्रिंशत् । वाजिनः । देवबन्धोः । वङ्क्रीः । अश्वस्य । स्वधितिः । सम् । एति । अच्छिद्रा । गात्रा । वयुना । कृणोत । परुःपरुः । अनुघुष्य । वि । शस्त ॥catuḥ-triṃśat | vājinaḥ | deva-bandhoḥ | vaṅkrīḥ | aśvasya | sva-dhitiḥḥ | sam | eti | acchidrā | gātrā | vayunā | kṛṇota | paruḥ-paruḥ | anu-ghuṣya | vi | śasta