Sukta 1.162
यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
yát te sā́de máhasā śū́kṛtasya pārṣṇyā́ vā káśayā vā tutóda | srucéva tā́ havíṣo adhvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi ||
Whatever in thy going and setting, in the great impetus of thy roused force, was smitten by heel or by whip—those strokes, as with the ladle in the sacrifices, I make them all a consecrated offering for thee by the power of the Word.
यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ । स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥यत् । ते । सादे । महसा । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद । स्रुचाइव । ता । हविषः । अध्वरेषु । सर्वा । ता । ते । ब्रह्मणा । सूदयामि ॥yat | te | sāde | mahasā | śūkṛtasya | pārṣṇyā | vā | kaśayā | vā | tutoda | srucāiva | tā | haviṣaḥ | adhvareṣu | sarvā | tā | te | brahmaṇā | sūdayāmi