Sukta 1.162
यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै । संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥
yád aśvā́ya vā́sa upa-stṛṇánty adhī-vā́sāṃ yā́ híraṇyāny asmai | saṃ-dānáṃ árvantaṃ paḍbī́śaṃ priyā́ devéṣv ā́ yā́mayanti ||
When for the steed they spread the cloth and lay on the covering, and when the golden forms are set upon him—then they bring the horse-force into right joining and readiness, dear to the Gods, and lead it into the divine powers.
यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ । स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥यत् । अश्वाय । वासः । उपस्तृणन्ति । अधीवासम् । या । हिरण्यानि । अस्मै । सम्दानम् । अर्वन्तम् । पड्बीशम् । प्रिया । देवेषु । आ । यमयन्ति ॥yat | aśvāya | vāsaḥ | upa-stṛṇanti | adhī-vāsam | yā | hiraṇyāni | asmai | sam-dānam | arvantam | paḍabaḍhabadabadrahṇīśam | priyā | deveṣu | ā | yamayanti