Sukta 1.162
निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः । यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
ni-krámaṇaṃ ni-sádanam vi-vártanam yác ca paḍbī́śam árvataḥ | yác ca papáu yác ca ghāsíṃ jaghā́sa sárvā tā́ te ápi devéṣv astu ||
Whatever in thee was the stepping-forth, the settling-down, the turning-about, and whatever was the impulse and forward-push of the steed; whatever thou hast drunk and whatever fodder thou hast eaten—may all that in thee be taken up and made one with the Gods.
नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः । यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥निक्रमणम् । निसदनम् । विवर्तनम् । यत् । च । पड्बीशम् । अर्वतः । यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु ॥ni-kramaṇam | ni-sadanam | vi-vartanam | yat | ca | paḍabaḍhabadabadrahṇīśam | arvataḥ | yat | ca | papau | yat | ca | ghāsim | jaghāsa | sarvā | tā | te | api | deveṣu | astu