Sukta 1.162
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति । ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
yé vājínaṃ paripáśyanti pakváṃ yá īm āhúḥ surabhír nír haréti | yé cā́rvato māṃsabhíkṣām upā́sata utó téṣām abhigū́rtir na invatu ||
Those who look upon the steed when it is ripened, those who say, ‘Carry out the fragrant essence,’ and those who attend upon the steed seeking the portion of substance—may the forward-driving collective assent of them all impel us onward.
ये । वा॒जिन॑म् । प॒रि॒ऽपस्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ । ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥ये । वाजिनम् । परिपस्यन्ति । पक्वम् । ये । ईम् । आहुः । सुरभिः । निः । हर । इति । ये । च । अर्वतः । मांसभिक्षाम् । उपआसते उतो इति । तेषाम् । अभिगूर्तिः । नः । इन्वतु ॥ye | vājinam | pari-pasyanti | pakvam | ye | īm | āhuḥ | surabhiḥ | niḥ | hara | iti | ye | ca | arvataḥ | māṃsa-bhikṣām | upa-āsate uto iti | teṣām | abhi-gūrtiḥ | naḥ | invatu