Sukta 1.162
यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति । मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
yát te gā́trād agnínā pacyámānād abhí śū́laṃ níhatasya avadhā́vati | mā́ tád bhū́myām ā́ śriṣan mā́ tṛ́ṇeṣu devébhyaḥ tád uśádbhyo rātám astu ||
Whatever from your limbs, as they are cooked by Agni, runs down upon the spit from what is struck—let it not fall upon the earth, let it not fall among the grass; let that be given as a glad gift to the gods who desire it.
यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति । मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । निहतस्य । अवधावति । मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्भ्यः । रातम् । अस्तु ॥yat | te | gātrāt | agninā | pacyamānāt | abhi | śūlam | ni-hatasya | ava-dhāvati | mā | tat | bhūmyām | ā | śriṣat | mā | tṛṇeṣu | devebhyaḥ | tat | uśat-bhyaḥ | rātam | astu