Sukta 1.161
इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत । ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ॥
इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत । ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
índro hárī yuyujé aśvínā ráthaṃ bṛ́haspátir viśvarū́pām úpājata | ṛbhúr vibhvā́ vā́jo devā́ṃ agacchata svápaso yajñíyaṃ bhā́gam aitana ||
Indra yoked his two powers of force; the Aśvins yoked their chariot; Bṛhaspati approached the all-formed (power). Ṛbhu, Vibhvan, Vāja went to the gods—perfect in works—and they won their share that is worthy in the sacrifice.
इन्द्रः॑ । हरी॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ । ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥इन्द्रः । हरी । युयुजे । अश्विना । रथम् । बृहस्पतिः । विश्वरूपाम् । उप । आजत । ऋभुः । विभ्वा । वाजः । देवान् । अगच्छत । सुअपसः । यज्ञियम् । भागम् । ऐतन ॥indraḥ | harī | yuyuje | aśvinā | ratham | bṛhaspatiḥ | viśva-rūpām | upa | ājata | ṛbhuḥ | vi-bhvā | vājaḥ | devān | agacchata | su-apasaḥ | yajñiyam | bhāgam | aitana