Sukta 1.161
हनामैनाँ इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः । अन्या नामानि कृण्वते सुते सचाँ अन्यैरेनान्कन्या नामभिः स्परत् ॥
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः । अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
hanā́mainā́n íti tvaṣṭā́ yád ábravīc camasáṃ yé devapā́nam ánindiṣuḥ | anyā́ nā́māni kṛṇvate suté sacā́ anyáir enān kanyā́ nā́mabhiḥ sparat ||
‘I will strike them down,’ said Tvaṣṭṛ, when he spoke of the cup which they had made blameless for the gods’ drinking. They make other names while the Soma is pressed; by other maiden-names she touches them and wins them over.
हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः । अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॑नान् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥हनाम । एनान् । इति । त्वष्टा । यत् । अब्रवीत् । चमसम् । ये । देवपानम् । अनिन्दिषुः । अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नामभिः । स्परत् ॥hanāma | enān | iti | tvaṣṭā | yat | abravīt | camasam | ye | deva-pānam | anindiṣuḥ | anyā | nāmāni | kṛṇvate | sute | sacā | anyaiḥ | enān | kanyā | nāma-bhiḥ | sparat